पूर्वम्: ७।३।५७
अनन्तरम्: ७।३।५९
 
सूत्रम्
विभाषा चेः॥ ७।३।५८
काशिका-वृत्तिः
विभाषा चेः ७।३।५८

चिनोतेः अङ्गस्य सन्लिटोरभ्यासादुत्तरस्य विभाषा कवर्गादेशो भवति। चिचीषति चिकीषति। चिकाय, चिचाय। सन्लिटोः इत्येव, चेचीयते।
लघु-सिद्धान्त-कौमुदी
विभाषा चेः ६५०, ७।३।५८

अभ्यासात्परस्य कुत्वं वा स्यात्सनि लिटि च। चिकाय, चिचाय; चिक्ये, चिच्ये। अचैषीत्, अचेष्ट॥ स्तृञ् आच्छादने॥ ३॥ स्तृणोति, स्तृणुते॥
न्यासः
विभाषा चेः। , ७।३।५८

बाल-मनोरमा
विभाषा चेः ३५५, ७।३।५८

विभाषा चेः। "चजोः कुघिम्ण्यतो"रित्यतः कुग्रहणमनुवर्तते। "अभ्यासाच्चे"त्यतोऽभ्यासादिति, "सन्लिटोर्जे"रित्यतः संन्लिटोरिति च। तदाह-- अभ्यासादित्यादिना। स्तृञ् आच्छादने इति। अनिट्। लिटि तस्तार। अतुसादौ "ऋतश्च संयोगादेर्गुणः" इति गुणः। वृद्धिविषयेऽपि परत्वादस्य प्रवृत्तिः। तस्तरतुः। ऋदन्तत्वात्थल्यपि नित्यंनेट्। तस्तर्थ।तस्तरिव। तस्तरे तस्तराते तस्तरिते। तस्तरिषे। तस्तरिवहे। स्तर्ता। "ऋद्धनोः स्ये"।स्तरिष्यति। आशीर्लिङि परस्मैपदे यासुटः कित्त्वाद्गुणनिषेधे प्राप्ते आह-- गुणोर्तीति गुण इति। तङि आशीर्लिङि स्तृ- षीष्ट इति स्थिते---

तत्त्व-बोधिनी
विभाषा चेः ३१०, ७।३।५८

विभाषा चेः। "चजो"रिति सूत्रात्कुरनुवर्तते, "सन्लिटोर्जे"रित्यतः सन्लिटोरिति च। सन्युदाहरणं चिकीर्षति। चिचीषति। र